Skip to main content

ShodhPatra: International Journal of Science and Humanities

ShodhPatra: International Journal of Science and Humanities

A Peer-Reviewed & Refereed International Multidisciplinary Monthly Journal

Call For Papers - Volume - 3 Issue - 7 (July 2026)
Paper Title

धर्मशास्त्रे प्रतिपादितं प्रायश्चित्तविमर्शः

Author(s) Satyen Barman.
Country India
Abstract

सारांश- भारतीयेषु वाङ्मये सर्वाधिकं चर्चितं सुप्रसिद्धं च महत्त्वपूर्णं धर्मशास्त्रं स्मृतयः इति एव कथ्यते। यासु सर्वोत्कृष्टा मनुस्मृतिः। सा मनुसंहिता मानवधर्मशास्त्रं मानवशास्त्रं च इति नामभिः अपि प्रसिद्धा। प्रसन्नता मानवस्य जन्मसिद्धः अधिकारः अस्ति, यस्मिन मानवस्य सर्वहितं समाहितं भवति, एषः एव जीवनस्य मूलमन्त्रः अपि अस्ति। अस्य समर्थनं अस्माकं विद्वद्भिः अपि कृतम्। सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग्भवेत्॥ अस्य उक्त्या सिद्धं भवति यत् भारतीयसंस्कृतेः प्रथमं उद्देश्यं सर्वेषां हितार्थं अस्ति। धर्मशास्त्रेषु अपि अस्माकं जीवनस्य उद्देश्यं पूर्णं कर्तुं सद्मार्गस्य अनुकरणं अत्यधिकं बलं दत्तम् अस्ति। तस्य कारणं यत् व्यक्तिः यदा सद्मार्गेण नीत्या शासनव्यवस्थायाः अनुरूपं कार्यं करिष्यति तदा सः न नीतिमार्गतः भ्रंश्येत न च पापकर्मणि लिप्तः भविष्यति। अस्माकं स्मृतिषु पापकर्मणः उपरान्त प्राप्तव्यः दण्डः च प्रायश्चित्तं च विस्तरेण वर्णितं अस्ति, येन वयं अस्माकं अधिकारान् तेषां च हननानन्तरं दण्डं च भलीकृत्य ज्ञातुं शक्नुमः। समाजस्य परिवर्तनशीलगुणस्य कारणेन अद्यत्वे पूर्वकालेभ्यः अनेकेषु क्षेत्रेषु परिवर्तनानि अभवन्। अद्यतनी न्यायव्यवस्था पूर्णतया परिवर्तिता जाता अस्ति। पूर्वकालस्य दण्डः न्यायव्यवस्था च दोषिनं सुधारयितुं तस्य च हितार्थं दत्ता जाता, राजा सम्पूर्णायाः प्रजायाः न्यायं दातुं अधिकारी आसीत्। किन्तु अद्य काले पापकर्मभिः आच्छादितं जातम्। अनेन काले धर्मसूत्राणि स्मृतयः च यथायोग्यं प्रासङ्गिकतया स्वीकर्तव्यानि। पूर्वकालस्य दण्डव्यवस्था प्रायश्चित्तं च अद्यतनीदण्डव्यवस्थायाः मध्ये समयस्य व्यापकता, अपराधस्य अधिकता, अत्यधिकं अपराधिकप्रवृत्तीनां बहुलता, सामाजिकनैतिकमूल्येषु च परिवर्तनं कारणं भवति। एतयोः व्यवस्थयोः मध्ये दोषिनं सज्जनं कर्तुं, तस्य च प्रायश्चित्तं स्वदोषस्य परिहारं च मुख्यं उद्देश्यं अस्ति येन पापकर्मणि नश्यन्ति। अतः अस्य विषये प्रासङ्गिकतायाः विचारं कुर्वन्तु धर्मशास्त्रेषु प्रतिपादितं प्रायश्चित्तविमर्शस्य सूक्ष्मविवेचनं अति आवश्यकम्। एतेन वयं आगामिकाले दोषरहितं समाजं निर्मातुं प्रयासं कर्तुं शक्नुमः। अस्माकं धर्मशास्त्रेषु अपि अयं उल्लेखः अस्ति यः मनुष्यः पापकर्मणि, हत्यायां, चौर्ये, षड्यन्त्रे इत्यादिषु दोषेषु सलिप्तः भवति तस्य प्रथमतः एकः अवसरः दातव्यः यः येन सः स्वदोषं परिष्कृत्य प्रायश्चित्तं कृत्वा सत्पथे अग्रसरः भवेत्। याज्ञवल्क्यस्मृतौ दण्डविधानं प्रायश्चित्तं च अत्यन्तसूक्ष्मरूपेण वर्णितं अस्ति। अतः अस्माभिः सर्वैः एतस्य अध्ययनं कर्तव्यमेव।

Subject Area Sanskrit
Issue Volume 1, Issue 9 (September 2024)
Published 2024/09/30
How to Cite Barman, S. (2024). धर्मशास्त्रे प्रतिपादितं प्रायश्चित्तविमर्शः. ShodhPatra: International Journal of Science and Humanities, 1(9), 12–17. https://doi.org/10.70558/SPIJSH.2024.v01.i09.99360
DOI 10.70558/SPIJSH.2024.v01.i09.99360

PDF View / Download PDF File