| Article Title |
शब्दब्रह्मणः शक्तिमतानां भेदादिविचारः |
| Author(s) | Vishal Sharma, Dr. Shreenathdhar Dwivedi. |
| Country | India |
| Abstract |
असौ मीमांसाशास्त्रीयं वाक्यविज्ञानं शब्दशास्त्रीयं पदविज्ञानं च व्याख्यातुं समं प्रसरति। अथ च वेदान्तशास्त्रीयं जगद्ब्रहौक्यविज्ञानमपि शब्दव्याख्यामाध्यमेन अत्र गुम्फितम् इत्यपरमस्य वैशिष्ट्यम् अस्ति। भर्तृहरेः पूर्व पाणिनीयं व्याकरणमिदं शब्दसिद्धिकरं शास्त्रमासीत् केवलं लोके विश्रुतम्। यद्यपि व्याडिविरचिते संग्रहग्रन्थे सर्वेऽपि दार्शनिकपक्षाः दर्शिताः। त्रिमुन्यन्यतमेन पतञ्जलिना महाभाष्ये यत्र तत्र दर्शनशास्त्रीया अपि विषयाः समारोपिताः सन्ति, परं 'व्याकरणं दर्शनम्' इति रूपेणानुज्ञानं नासीत् वाक्यपदीयात् पूर्वम्। अयमस्ति सर्वतः पूर्वं भर्तृहरेरनुग्रहो यत् व्याकरणमिदम् अपरं दर्शनमिति रूपेण प्रतिज्ञातं वर्तते। अस्मिन् शोधपत्रे शब्दब्रह्मणः स्वरूपम्, तथा च शब्दशक्तिमतानां भेदादिविचाराणां विषये प्रतिपाद्यते। शक्तिमतेषु षड्भावविकाराणां प्रासङ्गिकता इत्यादयः पक्षाः अत्र प्रस्तूयन्ते। |
| Area | Sanskrit |
| Issue | Volume 3, Issue 2 (February 2026) |
| Published | 2026/02/14 |
| How to Cite | Sharma, V., & Dwivedi, S. (2026). शब्दब्रह्मणः शक्तिमतानां भेदादिविचारः. ShodhPatra: International Journal of Science and Humanities, 3(2), 178-182. |
View / Download PDF File