Skip to main content

ShodhPatra: International Journal of Science and Humanities

ShodhPatra: International Journal of Science and Humanities

A Peer-Reviewed & Refereed International Multidisciplinary Monthly Journal

Call For Papers - Volume 3, Issue 9 (September 2026)
Paper Title

अहिंसा परमो धर्मः इति मन्वाचार्योक्तवाक्यस्य महाभारतानुगुण्यविमर्शः

Author(s)Indrani Mandal.
CountryIndia
Abstract

सर्वेषां मनुष्याणाम् एका उचितकर्तव्या "अहिंसा" भवतीति विषये कोऽपि संशयः एव नास्ति। शास्त्रेषु उक्तं यत् 'अहिंसा परमो धर्मः' इति। किन्तु परिवारेषु समाजेषु तथा देशे प्रविश्य दुष्कृतिभिः आततायिभिः यदि अत्याचारः, प्राणनाशः, जनन्यः दुहितॄन् स्त्रीजातीन् प्रति असम्मानं च क्रियते तर्हि तत्र अहिंसा परमो धर्मः इति शास्त्रवचनानुसारेण उपस्थितैः कार्यकतृभिः आरक्षकैः तुष्णीं भूत्वा अहिंसा एव आचरणीया वा? कदापि न, वरं तस्यां परिस्थितौ अहिंसां परित्यज्य हिंसा एव उचितकर्तव्या इति प्रतिभाति। तस्यां परिस्थितौ सः एव धर्मः। महाभारतशास्त्रस्य विविधोपाख्याने अहिंसा परमो धर्मः इति पालनीयधर्मरूपेण मनूक्तस्य शास्त्रवचनस्य विचारः दृश्यते। सर्वस्यां परिस्थितौ अहिंसा उचितकर्तव्या भवितुं नार्हति, क्वचित् हिंसापि धर्मरूपेण आचरणीया भवति। अहिंसा परमो धर्मः शास्त्रेण यथा उक्तः तथा कस्यांश्चित् परिस्थितौ हिंसापि औचित्यमावहति इत्यपि शास्त्रेण प्रतिपाद्यते। अतः क्वचित् एकस्यां परिस्थितौ हिंसाऽहिंसयोः द्वयोः कर्तव्ययोः एकत्र उपस्थितौ किं करणीयं किंवा अकरणीयमिति विषये संशयः जायते। तदा तस्मिन् समये आत्मानात्मविवेकवान् अखण्डचैतन्ये स्थिरबुद्धिः पुरुषः उचितकर्तव्यं निर्णीय तत्कर्तव्यपालने समर्थः भवतीति महाभारतीयः विचारणीयः सिद्धान्तः भवति। अतः परिवाररक्षार्थं समाजरक्षार्थं तथा देशरक्षार्थं लोककल्याणार्थं च उचितकर्तव्यस्य पालनाद् आत्मानात्मविवेकवान् अखण्डचैतन्ये स्थितबुद्धिसम्पन्नः पुरुषः भवेत् । सम्प्रति सन्त्रासवादिनः आतङ्कवादिनः सहसा भीतिप्रसारणेन प्राणनाशेन लुण्ठनेन च सर्वान् जीवान् विभीषयन्ति। अस्यां स्थितौ जनाः आत्मानम् असुरक्षितम् अनुभवन्ति। अहिंसा परमो धर्मः इति नैतिककर्तव्यं खण्डितं जायते। एतस्यां भयावहपरिस्थितौ अहिंसा परमो धर्मः इति मन्वाचार्योक्तिः महाभारतानुगुण्येन विचारणीयः उपदेशः हि सर्वेषां मार्गदर्शनं करिष्यति।

Subject AreaSanskrit
Issue Volume 2, Issue 11 (November 2025)
Published2025/11/26
How to Cite Mandal, I. (2025). अहिंसा परमो धर्मः इति मन्वाचार्योक्तवाक्यस्य महाभारतानुगुण्यविमर्शः. ShodhPatra: International Journal of Science and Humanities, 2(11), 153–157. https://doi.org/10.70558/spijsh.2025.v2.i11.45418
DOI 10.70558/SPIJSH.2025.v2.i11.45418
License
Copyright © 2025 The Author(s). This work is licensed under a Creative Commons Attribution 4.0 International License (CC BY 4.0).

PDF View / Download PDF File