Skip to main content

ShodhPatra: International Journal of Science and Humanities

ShodhPatra: International Journal of Science and Humanities

A Peer-Reviewed & Refereed International Multidisciplinary Monthly Journal

Call For Papers - Volume 3, Issue 9 (September 2026)
Paper Title

योगोपनिषत्सु नादानुसंधानं तथा शब्दप्रामाण्यविवेचनम्

Author(s)Sri. Ujjwal S.
CountryIndia
Abstract

भवतापेन तप्तानां योगो हि परमौषधम् इति वाक्येन योगस्य औषधत्वं सुस्पष्टं प्रतिपाद्यते। प्राचीनकालादेव गुरुकुलव्यवस्थायां सर्वविद्याभ्यासेन सह योगाभ्यासस्य शिक्षणमपि अनिवार्यमासीदिति विदितम्। अस्य हेतुः किमिति चेत् मनुष्यः यावत्कालं जीवेत् तावत्कालं स्वस्थः भवेत् इत्येव परमाभिलाषः। अत एव स्वास्थ्यरक्षणं अत्यावश्यकं मन्यते, यतो हि योगः सर्वजनजीवने औषधरूपेण अत्यन्तोपकारकः भवितुमर्हति। इति धिया मया अयं विषयः अनुसन्धानार्थं स्वीकृतः। शास्त्रेषु तापाः त्रिविधाः आध्यात्मिकः, आधिभौतिकः, आधिदैविकश्च इति प्रसिद्धाः। तेषु आधिभौतिकतापस्य पुनः द्वैविध्यं दृश्यते शारीरं मानसञ्चेति। शारीरकतापपरिहारार्थं औषधोपचाराः बहवः सन्ति, परन्तु मानसतापपरिहारः अद्यापि अत्यन्तं जटिलः विषयः इति मन्यते। अद्यतनसमाजे जनाः प्रमुखतया मानसिकव्याधिभिरेव पीडिताः दृश्यन्ते। तस्मात् मानसिकतापविमोचनाय नादानुसन्धानाख्यः योगमार्गः एकः प्रभावकारी उपायः भवितुमर्हति इति अस्य प्रबन्धस्य मूलप्रेरणा वर्तते। नादानुसन्धानद्वारा मनः शनैः शनैः शुद्ध्यति, एकाग्रता वर्धते, चित्तप्रसादश्च जायते इति अनुभूयते। अतोऽयं प्रबन्धः मानसिकतापपीडितानां जनानां दिग्भ्रमनिवारणाय, तेषां जीवनमार्गदर्शकत्वेन च भवेत् इति लेखकस्य दृढो विश्वासः। भवतु, अस्य विषयस्य विवेचनं कृत्वा समाजोपकाराय किञ्चिदपि योगदानं दातुम् अयं लघुप्रयासः प्रवर्तते।

Subject AreaSanskrit
Issue Volume 2, Issue 11 (November 2025)
Published2025/11/30
How to Cite Ujjwal, S. S. (2025). योगोपनिषत्सु नादानुसंधानं तथा शब्दप्रामाण्यविवेचनम्. ShodhPatra: International Journal of Science and Humanities, 2(11), 196–202. https://doi.org/10.70558/spijsh.2025.v2.i11.45426
DOI 10.70558/SPIJSH.2025.v2.i11.45426
License
Copyright © 2025 The Author(s). This work is licensed under a Creative Commons Attribution 4.0 International License (CC BY 4.0).

PDF View / Download PDF File